श्री गणपत्यथर्वशीर्ष

ॐ भद्रं कर्णेभि: शृणुयाम देवा: ॥ भद्रं पश्येमाक्षभिर्यजत्रा: ॥ स्थिरैरंगेस्तुष्टुवांसस्तनूभि : ॥ व्यशेम देवहितं यदायु: ॥१॥ ॐ स्वस्ति न इन्द्रो वृध्दश्रवा । स्वस्ति न: पूषा विश्ववेदा: ॥ स्वस्तिनस्ताक्ष्र्यो अरिष्ट्नेमि: ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥२॥ ॐ शांति: ! ॐ शांति: !! ॐ शांति: !!! ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्वमसि॥ त्वमेव केवलं हर्तासि ॥ त्वमेव केवलं धर्तासि ॥ त्वमेव केवलं हर्तासि ॥ त्वमेव सर्व खल्विदं ब्रम्हासि ॥ त्वं साक्षादात्मासि नित्यं ॥१॥ ॠतं वच्मि ॥ सत्यं वच्मि ॥२॥ अव त्वं मां ॥ अव वक्तारं ॥ अव श्रोतारं ॥अव दातारं ॥ अव धातारं ॥ अवानुचानमवशिष्यं ॥ अव पश्र्चात्तात ॥ अव पुरस्तात ॥ अवोत्तरात्तात ॥ अव दक्षिणात्तात ॥ अवचोधर्वा्त्तात ॥ अवधरात्तात ॥ सर्वतो मा पाहि पाहि समंतात ॥३।। त्वं वाङमयस्त्वं चिन्मय : ॥ त्वमानंदमयस्त्वं ब्रम्हमय: ॥ त्वं सच्चिदानंदाद्वितीयोसि ॥ त्वं प्रत्यक्षं ब्रम्हासि ॥ त्वं ज्ञानमयो वि ज्ञानमयोसि ॥४॥ सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोनलो नभ: ॥ त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीत: ॥ त्वमवस्थात्रयातीत: ॥ त्वं देहत्रयातीत: ॥ त्वं कालत्रयातीत: ॥ त्वं मूलाधार स्थितोसिनित्यं ॥ त्वं शक्तित्रयात्मक: ॥ त्वं योगिनो ध्यायंति नित्यं ॥ त्वं ब्रम्हा त्वं विष्णुस्त्वं रुद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रम्हाभूर्भुव:स्वरोम॥६॥ गणादिं पूर्वमुच्चार्यवर्णादिं तदनंतरं ॥ अनुस्वार: परतर: ॥ अर्धेन्दुलसितं ॥ तारेण ऋद्वं ॥ एतत्तव मनुस्वरुपं ॥ गकार: पूर्वरुपं ॥ अकारो मध्यमरुपं ॥ अनुस्वारश्चान्त्यरुपं ॥ बिन्दुतररुपं ॥ नाद: संघानं ॥सहितासंधि : ॥ सैषा गणेरिद्दा ॥ गणकऋषि: ॥ निचृद्रायत्रीच्छंद: ॥ गणपति देवता ॥ ॐ गँ गणपतये नम: ॥७॥ एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥ तन्नो दंती : प्रचोदयात ॥८॥ एकदंतं चतुर्हस्तं पाशंकुशधारिणं ॥ रदं च वरदं हस्तैब्रिभ्राणं मूषकध्वजं ॥ रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससं ॥ रक्तगधानुलिप्तांगं रक्तपुष्पै: सुपूजितं॥ आविर्भूतं च सृष्टयादो प्रकृते: पुरुषात्परं ॥ एवं ध्यायति नित्यं सयोगि योगिनां वर : ॥९॥ नमो व्रातपतये । नमो गणपतये । नम: प्रथमपतये । नमस्तेस्तु लंबोदरायैकदंताय । विघ्ननाशिने शिवसुताय । श्रीवरमूर्तये नमो नम: ॥१०॥